पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Riksha to Ekaparnaa) Radha Gupta, Suman Agarwal and Vipin Kumar Riksha - Rina ( Uushmaa/heat, Riksha/constellation, Rigveda, Richeeka, Rijeesha/left-over, Rina/debt etc.) Rinamochana - Ritu ( Rita/apparent - truth, Ritadhwaja, Ritambhara, Ritawaaka, Ritu/season etc. ) Ritukulyaa - Rishi ( Rituparna, Ritvija/preist, Ribhu, Rishabha, Rishi etc.) Rishika - Ekaparnaa ( Rishyamuuka, Ekadanta, Ekalavya etc.)
|
|
ऋत *पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोववदद्गर्भे अन्तः। तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥ - ऋ.१०.१७७.२ *श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः। माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥ - ऋ.१०.१७९.३ *ऋतं च सत्यं चाभीद्धात् तपसोऽध्यजायत। ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ - ऋ.१०.१९०.१ *सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥ - अथर्ववेद१.११.१ *सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन्निरेणसः। - अथर्ववेद २.१०.८ *परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य। - अ.२.१.४ *परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम्। - अ.२.१.५ *ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्नप वृङ्क्ष्व शत्रून्। - अ.३.१२.६ *इदं व आपो हृदयमयं वत्स ऋतावरीः। - अ.३.१३. *स हि दिवः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्। - अ.४.१.४ *मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे। प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः॥ - अ.४.२९.१ *यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। यो लोकानां विधृतिर्नाभिरेषात् तेनौदनेनाति तराणि मृत्युम् ॥ - अ.४.३५.१ *तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जनत्स्वदया सुजिह्व। - अ.५.१२.२ *अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥ - अ.५.१२.११ *एका च मे दश च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥ - अ.५.१५.१ *सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥ अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥ -- - - - - - - - - - - - - - - - अ५.१५.७-११ *वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥ - अ.५.१७.१ *कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत् पतन्ति। त आववृत्रन्त्सदनादृतस्यादिद् घृतेन पृथिवीं व्यूदुः ॥ - अ.६.२२.१ *बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि। मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥ - अ.६.३०.३ *ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे ॥ - अ.६.३६.१ *इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त। - अ.६.४७.३ *द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये नः पुनीताम् ॥ - अ.६.६२.१ *यद्देवा देवहेडनं देवासश्चकृमा वयम्। आदित्यास्तस्मान्नो यूयमृतस्यर्तेन मुञ्चत ॥ ऋतस्यर्तेनादित्या यजत्रा मुञ्चतेह नः। यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥ - अ.६.११४.१-२ *एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य। - अ.६.१२२.१ *अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्। - अ.६.१३४.१ *धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्नृतानि। तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥ - अ.७.१.१ *महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। - अ.७.६.२ *सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्नृतानि। - अ.७.५९.२/५७.२ *श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः। माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥ - अ.७.७५.३/७२.३ *त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति। - अ.८.३.११ *ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः। - अ.८.९.१३ *षड् जाता भूता प्रथमजर्तस्य षडु सामानि षडहं वहन्ति। - अ.८.९.१६ *अष्ट जाता भूता प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये। - अ.८.९.२१ *प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम्। अग्निर्ह्यन्तरापश्चर्तस्य प्रथमा द्वाः। - अ.९.३.२२ *सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः। एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः॥ - अ.९.५.२१ *माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे। - अ.९.९.८ *द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य। - अ.९.९.१३ *तं आववृत्रन्त्सदनादृतस्यादिद् घृतेन पृथिवीं व्यूदुः ॥ - अ.९.१५.२२ *अपादेति प्रथमा पद्वतीनां कस्तद् वां मित्रावरुणा चिकेत। गर्भो भारं भरत्या चिदस्या ऋतं पिपर्त्यनृतं नि पाति ॥ - अ.९.१५.२३ *कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम्। - अ.१०.७.१ *ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ - अ.१०.७.११ *स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम्। स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥ इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम्। इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥ - अ.१०.७.२९-३० *अविर्वै नाम देवतर्तेनास्ते परीवृता। तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥ - अ.१०.८.३१ *यदादित्यैर्हूयमानोपातिष्ठ ऋतावरि। इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥ - अ.१०.१०.९ *अभीवृता हिरण्येन यदतिष्ठ ऋतावरि। अश्वः समुद्रो भूत्वाध्यस्कन्दद् वशे त्वा ॥ - अ.१०.१०.१६ *ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते। ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥ - अ.१०.१०.३३ *ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे।।अंसद्री शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥ - अ.११.१.२३ *ऋतं हस्तावनेजनं कुल्योपसेचनम्। (बार्हस्पत्य ओदनम्) - अ.११.३.१३ *विश्वान् देवानिदं ब्रूमः सत्यसंधानृतावृधः। विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥ सर्वान् देवानिदं ब्रूमः सत्यसंधानृतावृधः। सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥ - अ.११.८.१९-२० *ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च। भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥ - अ.११.७.१७ *सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति। सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥ - अ.१२.१.१ *त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना। यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥ - अ.१२.१.६१ *श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता। सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥ - अ.१२.५.१ *त आववृत्रन्त्सदनादृतस्य तस्य देवस्य। क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। - अ.१३.३.९ *ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा तस्य देवस्य। - अ.१३.३.१९ *सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः। ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥ - अ.१४.१.१ *ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥ - अ.१४.१.१९ *युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु। ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥ - अ.१४.१.३१ *य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः। संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥ - अ.१४.२.४७ *स ऊर्ध्वां दिशमनु व्यचलत्। तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन्। ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥ - अ.१५.६.५ *जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम्। - - - - - - - -अ.१६.७.१- २७ *त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद् विष्णो बहुधा वीर्याणि। - अ.१७.१.१६ *ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम्। मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥ - अ.१७.१.२९ *न यत् पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम। - अ.१८.१.४ *द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा। - अ.१८.१.२९ *देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान्। - अ.१८.१.३० *ये चित् पूर्व ऋतसाता ऋतजाता ऋतावृधः। ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ - अ.१८.२.१५ *अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः। - अ.१८.३.२१ *अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः। विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ - अ.१८.३.२४ *त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वैतद् व्रतेन। अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥ - अ.१८.३.४० *ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति। तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥ - अ.१८.४.३ *आपश्चित् पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र। याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥ - अ.२०.१२.४ *उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्। - अ.२०.१७.९ *कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते। कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥ - अ.२०.५०.२ *येन सिन्धुं महीरपो रथाf इव प्रचोदयः। पन्थामृतस्य यातवे तमीमहे ॥ - अ.२०.६३.९ *इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्। तुरीयं स्विज्जनयद्विश्वजन्यो ऽयास्य उक्थमिन्द्राय शंसन् ॥ ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥ - अ.२०.९१.१-२ *अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ। अहं सूर्य इवाजनि ॥ - अ.२०.११५.१ *अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत। पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ - अ.२०.११९.१ *प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः। विप्रा ऋतस्य वाहसा ॥ - अ.२०.१३८.२ *ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥ - अ.२०.१४३.३ *सोऽभिमृशति - ध्रुवा असदन् -इति। ध्रुवा ह्यसदन्। ऋतस्य योनौ इति। यज्ञो वा ऋतस्य योनिः, यज्ञे ह्यसदन्। - शतपथ १.३.४.१६ *इडाकर्म : उपहूते द्यावापqथिवी पूर्वजे ऋतावरी देवी देवपुत्रे इति। तदिमे द्यावापृथिवी उपह्वयते - ययोरिदं सर्वमधि। - श.१.८.१.२९ *अग्निहोत्रे बृहदुपस्थानम् : राजन्तमध्वराणां गोपामृतस्य दीदिविम्। वर्द्धमानं स्वे दमे इति। स्वं वै त इदं - यन्मम। - श.२.३.४.२९ दीक्षितधर्माः :-- अथ व्रतं व्रतयित्वा नाभिमुपस्पृशति - श्वात्राः पीता भवत् यूयमापो अस्माकमन्तरुदरे सुशेवाः। ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधः - इति। - श.३.२.२.१९ *सोमानयनम् : तस्मिन् (अजे) वाचयति - नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत। दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत इति। नम एवास्माऽएतत्करोति। - श.३.३.४.२४ *सोमानयनम् :ताम् (औदुम्बरीं आसन्दीं)अभिमृशति - वरुणस्यऽऋतसदन्यसि इति। अथ कृष्णाजिनमास्तृणाति - वरुणस्यऽऋतसदनमसि इति . अथैनमासादयति वरुणस्य ऽऋतसदनमासीद इति। स यदाह -वरुणस्यऽऋतसदनमासीदेति। वरुण्यो ह्येष एतर्हि भवति। - श.३.३.४.२९ *प्रवर्ग्यकर्मणि तानूनप्त्रम् : तस्मादु ह न स्वा ऋतीयेरन्। य एषां परस्तरामिव भवति - स एनाननुव्यवैति। ते प्रियं द्विषतां कुर्वन्ति। द्विषद्भ्यो रध्यन्ति। तस्मान्नऽर्तीयेरन्। - श.३.४.२.३ *प्रवर्ग्य कर्मणि अवान्तरदीक्षा :ते निह्नुवते। एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्यः इति। सत्यं सत्यवादिभ्य इत्येवैतदाह। - श.३.४.३.२१ *पशु नियोजन प्रकारः :- पाशं कृत्वा प्रतिमुञ्चति। ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि इति वरुण्या वाऽएषा यद्रज्जु:। तदेनमेतदृतस्यैव पाशेन प्रतिमुञ्चति। तथो हैनमेषा वरुण्या रज्जुर्न हिनस्ति। - श.३.७.४.१ *धिष्ण्य पदार्थ विधानं : ते हऽर्तीयमाने (कलहायमाने) ऽऊचतुः - यतरा नौ दवीयः परापश्याद् - आत्मानं नौ सा जयादिति। तथेति। सा ह कद्रूरुवाच - परेक्षस्वेति - श.३.६.२.३ *संज्ञपनान्तरभावि प्रयोगकथनं :अनर्वा प्रेहि इति। असपत्नेन प्रेहीत्येवैतदाह। घृतस्य कुल्याऽउपऽऋतस्य पथ्याऽअनु इति साधूपेत्येवैतदाह। - श.३.८.२.३ *मैत्रावरुण ग्रहः :- अथातो गृह्णात्येव - अयं वां मित्रावरुणा सुतः सोम ऋतावृधा। ममेदिह श्रुतं हवम्। उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा इति। - श.४.१.४.७ *मैत्रावरुण ग्रहः :- - - - - -एष ते योनिर्ऋतायुभ्यां त्वा इति सादयति। स यदाह - ऋतायुभ्यां त्वेति। ब्रह्म वा ऋतम्। ब्रह्म हि मित्रः। ब्रह्मो ह्यतृम्। वरुण एवायुः, संवत्सरो हि वरुणः, संवत्सर आयुः। तस्मादाह एष ते योनिर्ऋतायुभ्यां त्वेति। - श.४.१.४.१० *ध्रुवग्रहः :- अथातो गृह्णात्येव - मूर्धानं दिवोऽअरतिं पृथिव्या वैश्वानरमृतऽआजातमग्निम्। कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः। - - - - इति सादयति। - श.४.२.४.२४ *दक्षिणादानम् : ऋतस्य पथा प्रेत इति। यो वै देवानां पथैति - स ऋतस्य पथैति। चन्द्रदक्षिणाः इति। तदेतेन ज्योतिषा यन्ति। - श.४.३.४.१७ *आजिधावनं, रथचक्राधिरोहणं : वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा, अमृता, ऋतज्ञाः। अस्य मध्वःपिबत, मादयध्वम्। तृप्ता यात पथिभिर्देवयानैः - इति। - श.५.१.५.२४ *अभिषेकोत्तरकर्माणि :सोऽवतिष्ठति - हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथि- र्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् इति। एताम- तिच्छन्दसं जपन्। - श.५.४.३.२२ *उखा सम्भरणे पश्वभिमन्त्रणविधानं : अथाजस्य।ऋतं सत्यमृतं सत्यम् इति। अयं वाऽअग्निर्ऋतम्, असावादित्यः सत्यम्।। यदि वाऽसावृतमयं सत्यम्। उभयम्वेतदयमग्निः। तस्मादाह - ऋतं सत्यमृतं सत्यमिति। तदेनमजेन सम्भरति। - श.६.४.४.१० *उख्याग्ने उपस्थानम् : हंसः शुचिषत् इति - - - - - - ऋतसद् इति। सत्यसदित्येतत्। - - - - श.६.७.३.११ *लोगेष्टका उपधानम् :अथोत्तरतः - इषमूर्जमहमित आदम् इति। इषमूर्जमहमित आददऽइत्येतत्। ऋतस्य योनिम् इति। सत्यं वाऽऋतम्। सत्यस्य योनिमित्येतत्। - श.७.३.१.२३ *लोगेष्टकोपधानम् : ऋतावानम् इति। सत्यावानमित्येतत्। महिषम् इति। अग्निर्वै महिषः - - - -श.७.३.१.३४ *आग्निक सौमिककर्मणोर्व्यतिषङ्गं :तस्मादश्वः शुक्ल उदुष्टमुख इव। अथो ह दुरक्षो भावुकः। तमु वाऽऋत्वेव हिंसित्वेव मेने। तमु होवाच - वरं ते ददामीति। - श.७.३.२.१४ *मधु वाता ऋतायते इति। यां वै देवतामृगभ्यनूक्ता, यां यजुः - सैव देवता सऽर्क्, सो देवता तद्यजुः। - श.७.५.१.४ *पञ्चचूडेष्टकोपधानम् : यद्वै सेनायां च समितौ चऽर्तीयन्ते - ते दङ्क्ष्णवः पशवः। - श.८.६.१.१६ *ऋतव स्थ इति। ऋतवो ह्येताः। ऋतावृधः इति। सत्यवृध इत्येतत्। ऋतुश्व स्थ ऋतावृध इति। अहोरात्राणि वा इष्टकाः। ऋतुषु वा अहोरात्राणि तिष्ठन्ति। - श.९.१.२.१८ *अथ वैश्वकर्मणीं जुहोति। विश्वकर्माऽयमग्निः। - - - - -वीतिहोत्रा ऋतावृध इति। सत्यवृध इत्येतत्। - श.९.२.३.४२ *सुत्याह कर्माणि : अथोत्तरे। इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्यु: इति। अमृतं वै हिरण्यम्। - श.९.४.४.५ *दर्शपूर्णमासः :- ऋतमेव पूर्व आघारः। सत्यमुत्तरः। अव ह वा ऋतसत्ये रुन्धे। अथो यत्किंचर्तसत्याभ्यां जय्यम्। सर्वं हैव तज्जयति ॥ - श.११.२.७.९ *अश्वमेधः :- व्यृद्धमु वा एतद्यज्ञस्य। यदयजुष्केण क्रियते। इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्ते। - श.१३.१.२.१ *अथातस्तृतीयसवनम्। अतिच्छन्दा एव प्रतिपत् वैश्वदेवस्य - - - -को नु वां मित्रावरुणावृतायन् इति वैश्वदेवं शस्त्वाऐकाहिके निविदं दधाति। - श.१३.५.१.११ *घर्मोद्वासनं : नाभिर्ऋतस्य सप्रथाः इति। सत्यं वा ऋतम्। सत्यस्य नाभिः सप्रथाः इत्येवैतदाह। - श.१४.३.१.१८ *मधु ब्राह्मणम् :इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत् - आथर्वणायाश्विना दधीचे अश्व्यं शिरः प्रत्यैरयतम्। स वां मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वाम् इति। - श.१४.५.५.१७ *आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम् : अथ हैनं जारत्कारव आर्तभागः पप्रच्छ। याज्ञवल्क्येति होवाच। कति ग्रहाः कत्यतिग्रहा इति। अष्टौ ग्रहाः। अष्टावतिग्रहाः। - - - - श.१४.६.२.१ *आर्तभागेति होवाच। आवमेवैतद्वेदिष्यावः। न नावेतत्सजन इति। तौ होत्क्रम्य मन्त्रयाञ्चक्रतुः। - - - श.१४.६.२.१४ *श्रीमन्थ कर्म ब्राह्मणम् : अथैनमाचामति - तत्सवितुर्वरेण्यम्। मधु वाता ऋतायते मधु क्षरंति सिंधवः। माध्वीर्नः संत्वोषधीः। भूः स्वाहा। - श.१४.९.३.११ *स्त्रीप्रधानो विद्यावंशः :- वाकादरुणीपुत्र आर्तभागीपुत्रात्। आर्तभागीपुत्रः शौंगीपुत्रात् - श.१४.९.४.३१ *अग्निहोत्रम् : अग्मन्न् ऋतस्य योनिम् आ इति। ग्रहा ह वा ऋतस्य योनिः। एतस्य ह वा इदम् अक्षरस्य कृतो जाताः प्रजा गच्छन्ति चाच गच्छन्ति। - जैमिनीय ब्राह्मण १.१०४ *आ रत्नधा योनिम् ऋतस्य सीदसि इति। अन्तरिक्षं वा ऋतम्। अन्तरिक्षम् एवैतेनात्यायन्। - जै.ब्रा.१.१२१ *स यो ऽनूचानस् सन्न् अयश ऋतो भवति - अमुं ह वै तस्य लोकं यशो गतं भवति - तद् एतेन पुनर् आह्रियते। - जै.ब्रा.१.१६८ *यौ वै युध्येते याव् ऋतीयेते ताव् आहुर् व्यगासिष्ठाम् इति। - जै.ब्रा.१.२६४ *पुनानस् सोम धारया इति प्रस्तौति। अपो वसानो अर्षसि इत्य् अष्टाक्षराणि। अ रत्नधा योनिम् ऋत - इत्य् अष्टेन तानि षोडश। -स्य सीदसि इति चत्वारि। ततो यानि षोडश स एव षोडशकलः पशुः। - जै.ब्रा.१.३२२ *उपोदको नाम लोको यस्मिन्न् अयम् अग्निर् ऋतधाम यस्मिन् वायुर् अपराजितो यस्मिन्न् आदित्यो ऽभिद्युर् - - - - - जै.ब्रा.१.३३४ *माम् अभ्य् अस्तम् अयेति प्रतीची दिक् प्रायच्छद् ऋतं च रात्रिं च। - जै.ब्रा.२.२५ *अथैष ऋतपेयः। देवेभ्यो वा ऊर्ग् अन्नाद्यम् उदक्रामत्। सोमाहुतिर् ह वा एभ्यस् सोच्चक्राम। सो एव विराट्। - - - - - जै.ब्रा.२.१५८ *ऋतं सत्यं वदन्तो भक्षयन्ति। ऋतेन हि ते तां सत्येनान्वविन्दन्। ऋतम् अमृतम् इत्य् आह। ऋतेन हि ते तद् अमृतम् अन्वविन्दन्। - जै.ब्रा.२.१६० *तस्मै वै म ऋतं कुरुतेति। तस्या ऋतनिधनेनैवर्तम् अकुर्वन्, ईनिधनेनापायन् - - - जै.ब्रा.२.२५४ *ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा। क्रतुं बृहन्तम् आशाथे। कवी नो मित्रावरुणा इति वीति भवत्य् अन्तरिक्षस्य रूपम्। - जै.ब्रा.३.३८ *वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतावृधम्। इन्द्रात् परि तन्वं ममे ॥ इति गायत्री वै वाग् अष्टापदी। तस्यै त्रिवृद् एव स्तोम स्रक्तयः। - जै.ब्रा.३.८९ *नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते। दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥ - - -जै.ब्रा.३.९८ *शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः। पवन्ते वारे अव्यये ॥ इति रूति रेवतीनां रूपम्। - जै.ब्रा.३.१३६ *वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति। - जै.ब्रा.३.१७७ *वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। - जै.ब्रा.३.१७८ *यजिष्ठं दूतम् अध्वरे कृणुध्वम्। यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥ इति। एतद् वा अग्नेः प्रियं धाम यद् घृतम्। - जै.ब्रा.३.२०७ *तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्। - - - -इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। - जै.ब्रा.३.२१३ *अथ प्रमंहिष्ठीयम्। - - - - प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे। उपस्तुतासो अग्नये ॥ - जै.ब्रा.३.२२५ *अथैता भवन्त्य् आ जागृविर् विप्र ऋतं मतीनाम् इत्य् आवतीर् उत्थानीये ऽहन्। - जै.ब्रा.३.२९१ *स उपोदको नाम लोको यस्मिन्न् अयम् अग्निः। अथर्तधामा यस्मिन् वायुः। अथ शिवो यस्मिंश् चन्द्रमाः - - - - -जै.ब्रा.३.३४७ *उपोदको नाम लोको ऽन्ने विष्ठो, मनुष्या गोप्तारो, अग्निर् अधिपतिर् ,- - - - -। ऋतधामा नाम लोको वयोभिर् विष्ठो, गन्धर्वाप्सरसो गोप्तारो, वायुर् अधिपति, श्वेतं रूपं, प्राणे प्रतिष्ठितः। - जै.ब्रा.३.३४८ *लोहितं रूपं यद्गौरवछदायै यद् वा माहारोहणस्य वासस, ऋते प्रतिष्ठितो यन् नार्च्छति तस्मिन्। - जै.ब्रा.३.३४९ *नासद् आसीन् नो सद् आसीत् तदानीं - - - - तस्मिन्न् असति सति न कस्मिंश् चन सत्य् ऋतं ज्योतिष्मद् उदप्लवत, सत्यं ज्योतिष्मद् उदप्लवत, तपो ज्योतिष्मद् उदप्लवत। तद् यद् ऋतम् इति वाक् सा, यत् सत्यम् इति प्राणस् सो, यत् तप इति मनस् तत्। - जै.ब्रा.३.३६० *क्षत्रं च राष्ट्रं चर्तं च सत्यं च तान्य् अवस्तात् तपश् च तेजश्च स्वधा चामृतं च तान्य् उ परस्तात्। - - - अथ यद्राष्ट्रं यद्देवविशो मरुतस् तत् तत्। ऋतं रात्रिः। सत्यं तद् अहः। तपो विद्युत्। - जै.ब्रा.३.३७३ *क्षत्रं राष्ट्रम् ऋतं सत्यं ब्रह्मणो निहितावराः। तपस् तेज स्वधामृतं त ऊर्ध्वास आसते, मध्ये ब्रह्म विराजति ॥ - जै.ब्रा.३.३७३ *स यद्भूर् भुव स्वर् इति व्याहरत् त एवेमे त्रयो लोका अभवन्न् उपोदक ऋतधामा ऽपराजितः। - जै.ब्रा.३.३८४ *घृतप्रतीकं च ऋतस्य धूर्षदम्। अग्निं मित्रं न समिधान ऋञ्जते। इन्धानो अक्रो विदथेषु दीद्यत्। शुक्रवर्णामुदु नो यंसते धियम् ॥ -तैत्तिरीय ब्राह्मण १.२.१.१२ *गवामयनशेषविधिः :- मही विश्पत्नी सदने ऋतस्य। अर्वाची एतं धरुणे रयीणाम्। अन्तर्वत्नी जन्यं जातवेदसम्। अध्वराणां जनयथः पुरोगाम्।(इत्यरणी आह्रियमाणे यजमानः प्रतीक्षते)। - तै.ब्रा.१.२.१.१३ *आरोहतं दशतं शक्वरीर्मम। ऋतेनाग्न आयुषा वर्चसा सह। ज्योग्जीवन्त उत्तरामुत्तराँ समाम्। दर्शमहं पूर्णमासं यज्ञं यथा यजै (इति हस्ताभ्यां प्रतिगृह्य)। - - - - अनृतात्सत्यमुपैमि। मानुषाद्दैव्यमुपैमि। दैवीं वाचं यच्छामि। - तै.ब्रा.१.२.१.१४ *शुद्धि हेतवः प्रकृतौ विनयोक्तव्या यजमानेन जपनीया मन्त्राः :- वैश्वानरो रश्मिभिर्मा पुनातु। वातःप्राणेनेषिरो मयोभूः। द्यावापृथिवी पयसा पयोभिः। ऋतावरी यज्ञिये मा पुनीताम्। - तै.ब्रा.१.४.८.३ *नक्षत्रेष्टका। चातुर्मास्य शेषभूत वपन मन्त्राः :- ऋतमेव परमेष्ठि। ऋतं नात्येति किंचन। ऋते समुद्र आहितः। ऋते भूमिरियं श्रिता। अग्निस्तिग्मेन शोचिषा। तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितम्। वैश्वानरस्य तेजसा। ऋतेनास्य निवर्तये। सत्येन परिवर्तये। तपसाऽस्यानुवर्तये। शिवेनास्योपवर्तये। शग्मेनास्याभिवर्तये। तदृतं तत्सत्यम्। तद्व्रतं तच्छकेयम्। तेन शकेयं तेन राध्यासम्। - तै.ब्रा.१.५.५.१, १.५.५.४, १.५.५.७ *राजसूयः। देवसुवां हविर्विधिः :- अमन्महि महत ऋतस्य नामेत्याह। मनुत एवैनम्। - तै.ब्रा.१.७.४.३ *असूषुदन्त यज्ञिया ऋतेनेत्याह। स्वदयत्येवैनम्। - तै.ब्रा.१.७.४.४ *सायं प्रातःकालभेदेन समन्त्रक परिषेचन विधिः :- ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदाऽऽदित्येन सायं परिषिञ्चति। - तै.ब्रा.२.१.११.१ *वैश्वकर्मणि उपहोमम् : तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य। गर्भं हविषा पिपर्तन। आऽस्य जानन्तो नामचिद्विवक्तन। बृहत्ते विष्णो सुमतिं भजामहे। - तै.ब्रा.२.४.३.९ *पापक्षयार्थ कर्मोपयोगि मन्त्राः :- यद्देवा देव हेडनम्। देवासश्चकृमा वयम्। आदित्यास्तस्मान्मा यूयम्। ऋतस्यर्तेन मुञ्चत। - तै.ब्रा.२.४.४.८ *ऋतस्यर्तेनाऽऽदित्याः। यजत्रा मुञ्चतेह मा। यज्ञैर्वा यज्ञवाहसः। आशिक्षन्तो न शेकिम। - तै.ब्रा.२.४.४.८ *ऐन्द्रे सौमिके कर्मणि विनियुक्ताः मन्त्राः :- वृषा सो अंशुः पवते हविष्मान्त्सोमः। इन्द्रस्य भाग ऋतयुः शतायुः। स मा वृषाणं वृषभं कृणोतु। प्रियं विशां सर्ववीरं सुवीरम्। - तै.ब्रा.२.४.५.१ *आग्नेय कर्मणि विनियोक्तव्यौ मन्त्रौ : ब्रह्म ज्येष्ठा वीर्या संभृतानि। ब्रह्माग्रे ज्येष्ठं दिवमाततान। ऋतस्य ब्रह्म प्रथमोत जज्ञे। तेनार्हति ब्रह्मणा स्पर्धितुं कः। - तै.ब्रा.२.४.७.१० *सूर्यमृतं तमसो ग्राह्या यत्। देवा अमुञ्चन्नसृजन्व्येनसः। एवमहमिमं क्षेत्रियाज्जामिशंसात्। द्रुहो मुञ्चामि वरुणस्य पाशात्।- तै.ब्रा.२.५.६.३ *बृहदिन्द्राय गायत। मरुतो वृत्रहन्तमम्। येन ज्योतिरजनयन्नृतावृधः। देवं देवाय जागृवि। - तै.ब्रा.२.५.८.३ *सौत्रामणेः कौकिल्या अभिधानम् : सोमो राजाऽमृतं सुतः। ऋजीषेणाजहान्मृत्युम्। ऋतेन सत्यमिन्द्रियम्। विपानं शुक्रमन्धसः। इन्द्रस्येद्रियम्। इदं पयोऽमृतं मधु। - तै.ब्रा.२.६.२.१ *सोममद्भ्यो व्यपिबत्। छन्दसा हंसः शुचिषत्। ऋतेन सत्यमिन्द्रियम्। अद्भ्यः क्षीरं व्यपिबत्। क्रुङ्ङाङ्गिरसो धिया। ऋतेन सत्यमिन्द्रियम्। अन्नात्परिस्रुतो रसम्। ब्रह्मणा व्यपिबत्क्षत्रम्। ऋतेन सत्यमिन्द्रियम्। - तै.ब्रा.२.६.२.१ *रेतो मूत्रं विजहाति। योनिं प्रविशदिन्द्रियम्। गर्भो जरायुणाऽऽवृतः। उल्बं जहाति जन्मना। ऋतेन सत्यमिन्द्रियम्। वेदेन रूपे व्यकरोत्। सतासती प्रजापतिः। ऋतेन सत्यमिन्द्रियम्। - तै.ब्रा.२.६.२.२ *सोमेन सोमौ व्यपिबत्। सुतासुतौ प्रजापतिः। ऋतेन सत्यमिन्द्रियम्। दृष्ट्वा रूपे व्याकरोत्। सत्यानृते प्रजापतिः। अश्रद्धामनृतेऽदधात्। श्रद्धां सत्ये प्रजापतिः। ऋतेन सत्यमिन्द्रियम्। - तै.ब्रा.२.६.२.३ *दृष्ट्वा परिस्रुतो रसम्। शुक्रेण शुक्रं व्यपिबत्। पयः सोमं प्रजापतिः। ऋतेन सत्यमिन्द्रियम्। विपानं शुक्रमन्धसः। इन्द्रस्येन्द्रियम्। इदं पयोऽमृतं मधु। - तै.ब्रा.२.६.२.३ *मैत्रावरुणेन पठनीया एकादश प्रयाज प्रैषाः :- होता यक्षदोजो न वीर्यम्। सहो द्वार इन्द्रमवर्धयन्। सुप्रायणा विश्रयन्तामृतावृधः। द्वार इन्द्राय मीढुषे। वियन्त्वाज्यस्य होतर्यज। - तै.ब्रा.२.६.७.३ *होता यक्षद्व्यचस्वती। सुप्रायणा ऋतावृधः। द्वारो देवीर्हिरण्ययी:। ब्रह्माण इन्द्रं वयोधसम्। पङ्क्तिं छन्द इहेन्द्रियम्। तुर्यवाहं गां वयो दधत्। - तै.ब्रा.२.६.१७.३ *अग्निष्टुदाख्ये क्रतौ मैत्रावरुण ग्रहस्य पुरोरुक् :- यजा नो मित्रावरुणा। यजा देवां ऋतं बृहत्। अग्ने यक्षि स्वं दमम्। - तै.ब्रा.२.७.१२.१ *शुक्रग्रहस्य पुरोरुक् :- स सूर आ जनयञ्ज्योतिरिन्द्रम्। अया धिया तरणिरद्रिबर्हाः। ऋतेन शुष्मीनवमानो अर्कैः। व्युस्रिधो अस्रो अद्रिर्बिभेद। - तै.ब्रा.२.७.१३.२ *पशोः सूक्ते वपाया याज्या :- रयीणां पतिं यजतं बृहन्तम्। अस्मिन्भरे नृतमं वाजसातौ। प्रजापतिं प्रथमजामृतस्य। यजाम देवमधि नो ब्रवीतु। - तै.ब्रा.२.८.१.३ *वायव्यादिपशुसूक्ताभिधानम्। हविषो याज्या :-यो राय ईशे शतदाय उक्थ्यः। यः पशूनां रक्षिता विष्ठितानाम्। प्रजापतिः प्रथमजा ऋतस्य। सहस्रधामा जुषताँ हविर्नः। - तै.ब्रा.२.८.१.४ *काम्य पशूनां वपाया याज्या :- ते सूनवो अदितेः पीवसामिषम्। घृतं पिन्वत्प्रतिहर्यन्नृतेजाः। प्र यज्ञिया यजमानाय येमुरे। आदित्याः कामं पितुमन्तमस्मे। - तै.ब्रा.२.८.२.१ *काम्य पशूनां वपाया याज्या :- प्र पूर्वजे पितरा नव्यसीभिः। गीर्भिः कृणुध्वं सदने ऋतस्य। आ नो द्यावापृथिवी दैव्येन। जनेन यातं महि वां वरूथम्। - तै.ब्रा.२.८.४.७ *पशोः सूक्ते वपाया पुरोनुवाक्या :- शुची वो हव्या मरुतः शुचीनाम्। शुचि हिनोम्यध्वरं शुचिभ्यः। ऋतेन सत्यमृतसाप आयन्। शुचिजन्मानः शुचयः पावकाः। - तै.ब्रा.२.८.५.५ *पशोः सूक्ते वपायाः पुरोनुवाक्या :- अहमस्मि प्रथमजा ऋतस्य। पूर्वं देवेभ्यो अमृतस्य नाभिः। यो मा ददाति स इदेव माऽऽवाः। अहमन्नमन्नमदन्तमद्मि। - तै.ब्रा.२.८.८.१ *हविषः पुरोनुवाक्या :- वागक्षरं प्रथमजा ऋतस्य। वेदानां माताऽमृतस्य नाभिः। सा नो जुषाणोपयज्ञमागात्। अवन्ती देवी सुहवा मे अस्तु। - तै.ब्रा.२.८.८.५ *दर्शपूर्णमासेष्टिविधिः। दोहनसंबंधि विधिः:- संपृच्यध्वमृतावरीरित्याह। अपां चैवौषधीनां च रसं संसृजति। - तै.ब्रा.३.२.३.१० *दर्शपूर्णमासेष्टिः। वेदिका संबंधि विधिः :- ऋतमस्यृतसदनमस्यृत श्रीरसीत्याह। यथायजुरेवैतत्। - तै.ब्रा.३.२.९.१२ *मनुष्य पशूनां विधिः :- ऋत्यै स्तेनहृदयम्। - तै.ब्रा.३.४.७.१ *ऋत्यै जनवादिनम्। - तै.ब्रा.३.४.१४.१ *इष्टिहौत्रस्य मन्त्राः, होतुर्जपः :- सत्यं प्रपद्ये। ऋतं प्रपद्ये। अमृतं प्रपद्ये। - तै.ब्रा.३.५.१.१ *इष्टिहौत्रस्य मन्त्राः याज्यानुवाक्याः :- ऋता यजासि महिना वियद्भूः। हव्या वह यविष्ठया ते अद्य ॥ - तै.ब्रा.३.५.७.६ *उपहूते द्यावापृथिवी। पूर्वजे ऋतावरी। देवी देवपुत्रे। उपहूतोऽयं यजमानः। - तै.ब्रा.३.५.८.३ *इष्टिहौत्रस्य मन्त्राः। पत्नी संयाजः :- यजिष्ठः स प्र यजतामृतावा। - तै.ब्रा.३.५.१२.१ *इष्टिहौत्रस्य मन्त्राः। इडाह्वानम् :- उपहूते द्यावापृथिवी। पूर्वजे ऋतावरी। देवी देवपुत्रे। उपहूतेयं यजमाना। - तै.ब्रा.३.५.१३.३ *पाशुक होत्रे प्रयाज विषये मैत्रावरुण प्रैषाः :- होता यक्षददुर ऋष्वाः कवष्योऽकोषधावनीरुदाताभिर्जिहतां वि पक्षोभिः श्रयन्ताम्। सुप्रायणा अस्मिन्यज्ञे विश्रयन्तामृतावृधो वियन्त्वाज्यस्य होतर्यज। - तै.ब्रा.३.६.२.२ *आप्री संज्ञका होत्रा पठनीयाः :- तनूनपात्पथ ऋतस्य यानान्। मध्वा समञ्जन्त्स्वदया सुजिह्व। - - - तै.ब्रा.३.६.३.१ *आप्री संज्ञका होत्रा पठनीयाः :- सद्योजातो व्यमिमीत यज्ञम्। अग्निर्देवानामभवत्पुरोगाः। अस्य होतुः प्रदिश्यतृस्य वाचि। स्वाहाकृतं हविरदन्तु देवाः। - तै.ब्रा.३.६.३.३ *स्विष्टकृतां मैत्रावरुणेन वक्तव्याः वनस्पतेः पुरोनुवाक्या :- देवेभ्यो वनस्पते हवींषि। हिरण्यपर्णे प्रदिवस्ते अर्थम्। प्रदक्षिणिद्रशनया नियूय। ऋतस्य वक्षि पथिभी रजिष्ठैः। - तै.ब्रा.३.६.११.२ *वनस्पतेः स्विष्टकृतश्च याज्या : पावक शोचे वेष्ट्वं हि यज्वा। ऋता यजासि महिना वि यद्भूः। हव्या वह यविष्ठ या ते अद्य। - तै.ब्रा.३.६.१२.२ *सोमाङ्गभूता मन्त्राः। दैवतोपस्थानम् :- सक्षेदं पश्य। विधर्तरिदं पश्य। नाकेदं पश्य। रमतिः पनिष्ठा। ऋतं वर्षिष्ठम्। अमृता यान्याहुः। - तै.ब्रा.३.७.७.१ *क्षौममहतं महद्वासस्य प्रतिग्रहे मन्त्रम् :- ब्रह्मासि क्षत्त्रस्य योनिः। क्षत्त्रमस्यतृस्य योनिः। ऋतमसि भूरारभे श्रद्धां मनसा। - तै.ब्रा.३.७.७.२ *कृष्णाजिनमारूढस्य जप्यं मन्त्रम् :- आऽहं दीक्षामरुहमृतस्य पत्नीम्। गायत्रेण छन्दसा ब्रह्मणा च। ऋतं सत्येऽधायि। सत्यमृतेऽधायि। ऋतं च मे सत्यं चाभूताम्। - तै.ब्रा.३.७.७.४ *सन्नानां ग्राव्णामभिमन्त्रणे मन्त्रम् :- अपां क्षया ऋतस्य गर्भाः। भुवनस्य गोपाः श्येना अतिथयः - - - - तै.ब्रा.३.७.९.१ *दर्भपुञ्जीलै: पाव्यमानस्य यजमानस्य जपार्था मन्त्राः :- यद्देवा देवहेडनम्। देवासश्चकृमा वयम्। आदित्यास्तम्मान्मा मुञ्चत। ऋतस्यर्तेन मामुत। - तै.ब्रा.३.७.१२.१ *ऋतेन द्यावापृथिवी। ऋतेन त्वं सरस्वति। ऋतान्मा मुञ्चताँहसः। यदन्यकृतमारिम। - तै.ब्रा.३.७.१२.२ *रशनयाऽश्वबन्धनम् :- व्यृद्धं वा एतद्यज्ञस्य। यदयजुष्केण क्रियते। इमामगृभ्णन्रशनामृतस्येत्यधिवदति यजुष्कृत्यै। यज्ञस्य समृद्ध्यै। - तै.ब्रा.३.८.३.२ *अश्वमेधे प्रथममहः। रशनया अश्वबन्धनम् :- ऋतस्य सामन्सरमारपन्तीत्याह। सत्यं वा ऋतम्। सत्येनैवैनमृतेनाऽऽरभते। - तै.ब्रा.३.८.३.५ *सावित्रचयनाभिधानम् :-इन्दुर्दक्षः श्येन ऋतावा। हिरण्यपक्षः शकुनो भुरण्यु:। महान्त्सधस्थे ध्रुव आनिषत्तः। नमस्ते अस्तु मा मा हिंसीः। - तै.ब्रा.३.१०.४.३ *वैश्वसृज चयनांगभूता पाद्याख्येष्टीनाम् याज्या :- श्रद्धा देवी प्रथमजा ऋतस्य। विश्वस्य भर्त्री जगतः प्रतिष्ठा। ताँ श्रद्धां हविषा यजामहे। सा नो लोकममृतं दधातु। ईशाना देवी भुवनस्याधि पत्नी। - तै.ब्रा.३.१२.३.२ *वैश्वसृज दक्षिणा चयनाभिधानम् :- अशंसद्ब|ह्मणस्तेजः। अच्छावाकोऽभवद्यशः। ऋतमेषां प्रशास्ताऽऽसीत्। यद्विश्वसृज आसत। - तै.ब्रा.३.१२.९.४ *विधाय लोकान्विधाय भूतानि। विधाय सर्वाः प्रदिशो दिशश्च। प्रजापतिः प्रथमजा ऋतस्य। आत्मनाऽऽत्मानमभिसंविवेशेति। - तैत्तिरीय आरण्यक १.२३.९ *पापक्षयार्थ कूष्माण्डहोमाङ्गभूता मन्त्राः :- यद्देवा देवहेळनं देवासश्चकृमा वयम्। आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामित। देवा जीवनकाम्या यत्रचाऽनृतमूदिम। तस्मान्न इह मुञ्चत विश्वे देवाः सजोषसः। ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति। कृतान्नः पाह्येनसो यत्किंचानृतमूदिम ॥ - तै.आ.२.३.१ *अमी ये सुभगे दिवि विचृतौ नाम तारके। प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम्। - तै.आ.२.६.१ *स प्रजानन्प्रतिगृभ्णीत विद्वान्प्रजापतिः प्रथमजा ऋतस्य। अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसंचरेम। - तै.आ.२.६.१ *होतृहृदय मन्त्राः :- इन्द्रं राजानं सवितारमेतम्। वायोरात्मानं कवयो निचिक्यु:। रश्मिं रश्मीनां मध्ये तपन्तम्। ऋतस्य पदे कवयो निपान्ति। - तै.आ.३.११.४ *येनर्तवः पञ्चधोत क्लृप्ताः। उत वा षड्धा मनसोत क्लृप्ताः। तं षड्ढोतारमृतुभिः कल्पमानम्। ऋतस्य पदे कवयो निपान्ति। (चन्द्रमा) - तै.आ.३.११.४ *पतङ्गो वाचं मनसा बिभर्ति। तां गन्धर्वोऽवदद्गर्भे अन्तः। तां द्योतमानां स्वर्यं मनीषाम्। ऋतस्य पदे कवयो निपान्ति ॥ (आदित्यः) - तै.आ.३.११.११ *प्र पूर्व्यं मनसा वन्दमानः। नाधमानो वृषभं चर्षणीनाम्। यः प्रजानामेकराण्मानुषीणाम्। मृत्युं यजे प्रथमजामृतस्य ॥ - तै.आ.३.१५.२ *देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीः ॥(इति वल्मीकवपाम् अभिमन्त्रयत) - तै.आ.४.२.३ *महावीरस्य सिंचन - अभिपूरण हेतु मन्त्रः :- अञ्जन्ति यं प्रथयन्तो न विप्राः। वपावन्तं नाग्निना तपन्तः। पितुर्न पुत्र उपसि प्रेष्ठः। आघर्मो अग्निमृतयन्नसादीत्। (इति स्रुवेण महावीरमन्क्त्यभिपूरयति च) - तै.आ.४.५.२ *उत्तरवेदि अभिमर्शनम्:- चतुःस्रक्तिर्नाभिर्ऋतस्य।- तै.आ.४.११.४ *प्रवर्ग्यमुपतिष्ठन्ते :-चिदसि समुद्रयोनिः। इन्दुर्दक्षः श्येन ऋतावा। हिण्यपक्षः शकुनो भुरण्युः। महान्त्सधस्थे ध्रुव आनिषत्तः। नमस्ते अस्तु मा मा हिंसीः। विश्वावसुं सोमगन्धर्वम्। आपो ददृशुषीः। तदृतेना व्यायन्। तदन्ववैत्। इन्द्रो रारहाण आसाम्। परि सूर्यस्य परिधींरपश्यत्। - तै.आ.४.११.६ *भिन्नं महावीरस्य संश्लेषण हेतु मन्त्रः :- यदृते चिदभिश्रिषः। पुरा जर्तृभ्य आतृदः। संधाता संधिं मघवा पुरोवसुः। निष्कर्ता विह्रुतं पुनः ॥ - तै.आ.४.२०.१ *आरण्याः पशवः कनीयांसः। शुचा ह्यृताः। - तै.आ.५.२.१२ *चतुःस्रक्तिर्नाभिर्ऋतस्येत्याह। इयं वा ऋतम्। तस्या एष एव नाभिः। यत्प्रवर्ग्यः। तस्मादेवमाह। - तै.आ.५.९.६ *नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवन्तु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। - तै.आ.७.१.१ *ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। - - - - - तै.आ.७.९.१ *ब्रह्मतत्त्वविद्याया अनुष्ठानानामवसाने शान्तिमन्त्रं :- - - - - ऋतमवादिषम्। सत्यमवादिषम्। तन्मामावीत् - - - शं नः शीक्षां सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यृतं चाहं वेदमनूच्य शं नो द्वादश।- तै.आ.७.१२.१ *उपास्य स्वरूपं :- स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः। ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। - तै.आ.८.४.१ *साम स्वरूपं :- - - - - अहमस्मि प्रथमजा ऋता३स्य। पूर्वं देवेभ्यो अमृतस्य ना३भायि। यो मा ददाति स इदेव मा३ऽऽवाः। अहमन्नमन्नमदन्तमा३द्मि। - - - तै.आ.९.१०.६ *सर्वजगदात्मत्मकत्वम् :- तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्। इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः ॥ - तै.आ.१०.१.२ *परि द्यावापृथिवी यन्ति सद्यः परि लोकान्परि दिशः परि सुवः। ऋतस्य तन्तुं विततं विचृत्य तदपश्यत्तदभवत्प्रजासु -तै.आ.१०.१.४ *जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तम् :-ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत। ततो रात्रिरजायत ततः समुद्रो अर्णवः। - - - - - - -तै.आ.१०.१.१३ *तपसिद्ध्यर्थं जप्यं मन्त्रम् :- ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दानं तपो यज्ञं तपो भूर्भुवः सुवर्ब|ह्मैतदुपास्स्यैतत्तपः। - तै.आ.१०.८.१ *हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ (ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत् - सायणः) - तै.आ.१०.१०.२ *उपास्यदेवतानमस्कारार्थमेकामृचम् :- ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥ - तै.आ.१०.१२.१ *हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्। - तै.आ.१०.५०.१ *संन्यासेन प्राप्ततत्त्वज्ञानं पुरुषं प्रशंसति :- - - - स भूतं स भव्यं जिज्ञासक्लृप्त ऋतजा रयिष्ठाः श्रद्धा सत्यो महस्वान्तमसोपरिष्टात्। - तै.आ.१०.६३.१ *यदध्यवर्युर्यजुषा करोति, अन्तरिक्षं तेनाप्याययति। तस्मिन् वायुर्न निविशते कतमच्चनाहरिति। तदप्येतदृचोक्तम् - अन्तरिक्षे पथिभिर्ह्रीयमाणो न नि विशते कतमच्चनाहः। अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव ॥ - गोपथ ब्राह्मण १.२.९ *अनर्वाणश्च ह वा ऋतावन्तश्च पितरः स्वधायामावृषायन्त - वयं वदामहै वयं वदामहा इति। सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदेयातां न वयं वदामहा इति। - गो.ब्रा.१.५.२१ *एष्टा राय एष्टा वामानि प्रेषे भगाय, ऋतमृतवादिभ्यो, नमो दिवे नमः पृथिव्या इति। - गो.ब्रा.२.२.४ *वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणान्त एतदहरेतस्याह्नो रूपम्। - ऐतरेय आरण्यक १.५.३ *ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा। - ऐ.आ.२.३.६ *अथ यः कश्च गेष्णः सः स्वर ओ३मिति सत्यं नेत्यनृतम्। तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति। अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते। - ऐ.आ.२.३.६ *वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् - - - - - तेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु - - - - - - ऐ.आ.२.७.१ *तमूतये हवामहे जेतारमपराजितम्। स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ - ऐ.आ.४.६ *इन्द्रः कर्माक्षितममृतं व्योम ऋतं सत्यं विजिग्यानं विवाचनम्। - ऐ.आ.५.३.२ *अथो खल्वाहुः कोऽर्हति मनुष्यः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति। विचक्षणवती वाचं वदेत। चक्षुर्वै विचक्षणं वि ह्येनेन पश्यति। एतद्ध वै मनुष्येषु सद्यं निहितं यच्चक्षुः। तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य श्रद्दधति यद्यु वै स्वयं पश्यति न बहूनां चनान्येषां श्रद्दधाति। - ऐतरेय ब्राह्मण १.६ *ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यम्। - ऐ.ब्रा.१.६ *निह्नवं :-द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा तद्यदेष्टा राय एष्टा वामानि प्रेषे भगाय। ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नवते द्यावापृथिवीभ्यामेव तं नमस्कुर्वन्ति - ऐ.ब्रा.१.२६ *ऋतावा यस्य रोदसी शंसति चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ठ्या चक्षुषाऽदर्शमिति तस्य श्रद्दधति चक्षुरेव तत्संभावयति चक्षु संस्कुरुते। - ऐ.ब्रा.२.४० *ऋतावा यस्य रोदसी इति शंसति द्यावापृथिवी वै रोदसी द्यावापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति। - ऐ.ब्रा.२.४१ *यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसम्। - ऐ.ब्रा.४.११ *हंसः शुचिषद्- - - - -ऋतसदित्येष वै सत्यसत् - - - - ऋतजा इत्यैष वै सत्यजाः। अद्रिजा इत्येष वा अद्रिजाः। ऋतमित्येष वै सत्यम्। - ऐ.ब्रा.४.२० *प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपम्। - ऐ.ब्रा.४.३० *वायो ये ते सहस्त्रिण इति प्रउगं सूतः सोम ऋतावृधेति वृधन्वद् द्वितीये ऽहनि द्वितीयस्याह्नो रूपम्। - ऐ.ब्रा.४.३१ *वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणाऽन्तस्तृतीयमहः - ऐ.ब्रा.५.२ *ऋतावानं वैश्वानरमित्याग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम् - ऐ.ब्रा.५.१९ *दोहनार्था मन्त्राः :- सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये सोमेन त्वाऽऽतनच्मीन्द्राय दधि विष्णो हव्यं रक्षस्व। - तैत्तिरीय संहिता १.१.३.१ *वेदिकरणार्था मन्त्राः :- (उत्तरं परिग्राहं परिगृह्णाति ऋतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतः) ऋतमस्यतृसदनमस्यतृश्रीरसि धा असि - - - -तै.सं.१.१.९.३ *दर्शपूर्णमासविकृतिभूतकाम्येष्टीनां याज्या मन्त्राः :- क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व। मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृडयन्तु ॥ - तै.सं.१.१.१४.३ *शकटारोपितस्य सोमस्य प्राचीनवंशं प्रति गमनम् :- (अथाग्रेण शालां तिष्ठन्नोह्यमानं राजानं प्रति मन्त्रयते) - नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत। दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत। - तै.सं.१.२.९.१ *सोमकरणकरिष्यमाणयागविघ्नकार्यसुरपराभवार्थोपसद्वर्णनम्" :- (न प्रस्तरायाऽऽआवयति न बर्हिरनुप्रहरति तं दक्षिणार्थे वेद्यै निधाय तस्मिन्दक्षिणोत्तरेण निह्नुवते) - एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या। - तै.सं.१.२.११.१ *अग्नीषोमीयपश्वभिधानायाग्नीषोमप्रणयनार्थवैसर्जनहोमाभिधानम् :-(ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति) - सोमो जिगाति गातुवित् देवानामेति निष्कृतमृतस्य योनिमासदमदित्याः सदोऽस्यदित्याः सद आ सीद् - - -तै.सं.१.३.४.२ *उपाकृताग्नीषोमीयपशुविशसनाभिधानम् :-(हे रशने ! त्वाम्) आ दद ऋतस्य त्वा देवहविः पाशेनाऽऽरभे - -(इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य)- - - तै.सं.१.३.८.१ *काम्ययाज्यापुरोनुवाक्याः : - (अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्) - अग्निर्होतो निषसादा यजीयानुपस्थे मातुः सुरभावु लोके। युवा कविः पुरुनिष्ठः ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥ - तै.सं.१.३.१४.२ *मैत्रावरुणग्रहाभिधानम् :-अयं वां मित्रावरुणा सुतः सोम ऋतावृधा। ममेदिह श्रुतं हवम्। उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वैष ते योनिर्ऋतायुभ्यां त्वा। (इति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीत्वा, एष ते योनि- - इति सादयति)। - तै.सं.१.४.५.१ *ध्रुवग्रहाभिधानम् :-मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम्। कविँ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः। (इति स्थाल्या ध्रुवं पूर्णं गृह्णाति) - तै.सं.१.४.१३.१ *दक्षिणावर्णनम् :- ऋतस्य पथा प्रेत चन्द्रदक्षिणा - तै.सं.१.४.४३.२ *पुनराधानसंबन्ध्यङ्गजातनिरूपणम् :-वीरहा वा एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्षन्पङ्क्त्यो याज्यानुवाक्या भवन्ति - - -। - तै.सं.१.५.२.१ *अग्न्युपस्थानम् :राजन्तमध्वराणां गोपामृतस्य दीदिविम्। वर्धमानं स्वे दमे। (इति गायत्रीभिर्गार्हपत्यमुपतिष्ठते)। - तै.सं.१.५.६.२ *काम्ययाज्यापुरोनुवाक्याभिधानम् :- (प्रथम हविषः याज्या) -ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे। - तै.सं.१.५.११.१ *राजसूयविषयाणां देवसुवां हविषामभिधानम् :- अमन्महि महत ऋतस्य नाम - तै.सं.१.८.१०.२ *राजसूयविषयाणामभिषेकार्थजलसंस्कारमन्त्राणामभिधानम् :-आविन्नौ मित्रावरुणावृतावृधावाविन्ने द्यावापृथिवी धृतव्रते (इति यजमानं वाचयन्बहिरुदानीय) - - तै.सं.१.८.१२.२ *राजसूयविषयदिग्व्यास्थापनमन्त्राणामभिधानम् :शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च सत्यश्चर्तपाश्च अत्यंहाः। (इतिमारुतमेकविँशतिकपालं निर्वपति वैश्वदेवीमामिक्षां)- तै.सं.१.८.१३.२ *राजसूयविषयस्य रथेन विजयस्याभिधानम् :- हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ (इति सह संग्रहीत्रा रथवाहने रथमत्यादधाति) - तै.सं.१.८.१५.२ *काम्ययाज्यापुरोनुवाक्याभिधानम् :-यद्दीदयच्छवसा ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्। (बृहस्पतिः) - तै.सं.१.८.२२.२ *काम्येष्टियाज्याविधानम् :- सं यदिषो वनामहे सं हव्या मानुषाणाम्। उत द्युम्नस्य शवसः ऋतस्य रश्मिमा ददे। - तै.सं.२.१.११.३ *दीर्घाधियो रक्षमाणाः असुर्यमृतावानश्चयमाना ऋणानि। - तै.सं.२.१.११.४ *अभिशस्तादिकर्तव्येष्टिविधिः :- न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्षन्नाग्नेयमष्टाकपालं निर्वपेद् - तै.सं.२.२.५.५ *राजयक्ष्मगृहीतस्येष्टिविधिः :- स (प्रजापतिः) (चन्द्रमसं)ऽब्रवीदृतममीष्व यथा समावच्छ उपैष्याम्यथ ते पुनर्दास्यामीति स ऋतमामीत्ता अस्मै पुनरददात्तासां रोहिणामेवोप ऐत्तं यक्ष्म आर्छद् - तै.सं.२.३.५.१ *चक्षुष्कामस्य ऽऽग्नेये कर्मणि याज्यानुवाक्याभिधानम् :- विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः। जुषन्तां युज्यं पयः। - तै.सं.२.४.१४.५ *इडोपाह्वानविधितन्मन्त्रव्याख्यानयोः प्रस्तावः :- उपहूते द्यावापृथिवी इत्याह द्यावापृथिवी एवोप ह्वयते पूर्वजे ऋतावरी इत्याह पूर्वजे ह्येते ऋतावरी देवी देवपुत्रे इत्याह - - - - तै.सं.२.६.७.५ *संवर्गेष्टिहौत्रे सामिधेन्या मन्त्राभिधानम् :- त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत। ऋतावा यज्ञियो भुवः। - तै.सं.२.६.११.१ *पितृयज्ञहविर्हौत्रत्रमन्त्राभिधानम् :- उदीरतामवर उतपरास उन्मध्यमाः पितरः सोम्यासः। असुम् य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु। - तै.सं.२.६.१२.३ *सवनाहुत्यादिमन्त्राणामभिधानम् :- इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त। ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभिवसीयो नयन्तु। (इति संस्थिते सवन आहुतिं जुहोति) - तै.सं.३.१.९.२ *स्तुतशस्त्राभिधानम् :- तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत - तै.सं.३.२.७.१ *तृतीयसवनमाध्यंदिसवनगतहोमविशेषमन्त्राभिधानम्:-अभिगूर्ताय नम ऋतमृपाः सुवर्वाट्स्स्वाहा वा~त्स्वयमभिगूर्ताय। - तै.सं.३.२.८.१ *प्रतिनिर्ग्राह्यमन्त्राभिधानम् :- उपयामगृहीतोऽस्यृतसदसि चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य - - - - -तै.सं.३.२.१०.१ *विकृतिरूपद्वादशाहशेषपृश्निग्रहाभिधानम् :- ऋतमसि सत्यं नामेन्द्रस्याऽऽधिपत्ये क्षत्त्रं मे दा भूतमसि भव्यं नाम पितृणामाधिपत्ये ऽपामोषधीनां गर्भं धा ऋतस्य त्वा व्योमन ऋतस्य त्वा विभूमन ऋतस्य त्वा विधर्मण ऋतस्य त्वा सत्यायर्तस्य त्वा ज्योतिषे - - - - - - - -ऋतमसि सत्यं नामेत्याह क्षत्त्रमेवाव रुन्धे - - - - - ऋतस्य त्वा व्योमन इत्याहेयं वा ऋतस्य व्योमेमामेवाभि जयत्यृतस्य त्वा विभूमन इत्याहान्तरिक्षं वा ऋतस्य विभूमान्तरिक्षमेवाभि जयत्यृतस्य त्वा विधर्मण इत्याह द्यौर्वा ऋतस्य विधर्म दिवमेवाभि जयत्यृतस्य त्वा सत्यायेत्याह दिशो वा ऋतस्य सत्यं दिश एवाभि जयत्यृतस्य त्वा ज्योतिष इत्याह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गमेव लोकमभि जयति। -तै.सं.३.३.५.१ *राष्ट्रभृन्मन्त्राभिधानम् :- ऋताषाडतृधामाऽग्निर्गन्धर्वस्तस्योषधयोऽप्सरस ऊर्जो नाम - - - तै.सं.३.४.७.१ *पत्नीविषया मन्त्राः :- प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेऽग्रं नयत्वदितिर्मध्यं ददतों (इति नेष्टा पत्नीमुदानयति)- - - तै.सं.३.५.५.२ *दधिग्रहणमन्त्रोक्तिः :- - - - - रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो - - - तै.सं.३.५.८.१ *दधिग्रहमन्त्रव्याख्यानम् : :-अग्निजिह्वेभ्यस्त्वर्तायुभ्य इत्याहैतावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्यो गृह्णाति - तै.सं.३.५.९.२ *मृदाक्रान्त्याभिधानम् :-इमामगृभ्णन्रशनामृतस्य पूर्व आयुषि विदथेषु कव्या। तया देवा सुतमा बभूवुर्ऋतस्य सामन्त्सरमारपन्ती (इति अश्वाभिधानीं रशनामादाय) - तै.सं.४.१.२.१ *मृदाहरणाभिधानम् :अग्न आ याहि वीतय ऋतं सत्यम् (इति तिसृभिरत्वरमाणा अश्वप्रथमा प्रत्यायन्ति)। - तै.सं.४.१.४.४ *चातुर्मास्यगतवैश्वदेवाख्यपर्वविहितहविषां याज्यापुरोनुवाक्याभिधानम् :प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिकृणुध्वं सदने ऋतस्य। - तै.सं.४.१.११.४ *आसन्द्यामुखाग्निस्थापनप्रतिपादनम् :- हंसः शुचिषद् - - - - नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् (इति आसन्द्याम् चतसृभिरुख्यं सादयति) - तै.सं.४.२.१.५ *आसन्दीस्थापिताग्नेरुपस्थानम् :-तृतीये त्वा रजसि तस्थिवांसमृतस्य योनौ महिषा अहिन्वन् (इति वात्सप्रेणोपतिष्ठते)। - तै.सं.४.२.१.१ *आहवनीयचयनार्थलोष्टक्षेपाद्यभिधानम् :- इषमूर्जमहमित आ दद ऋतस्य धाम्नो अमृतस्य योनेः (इति दिग्भ्यो लोष्टान्त्समस्यति)। - तै.सं.४.२.७.१ *ऋतावानं महिषं विश्वचर्षणिमग्निं सुम्नाय दधिरे पुरो जनाः (इति षड्भिः सिकता न्युप्य) - तै.सं.४.२.७.३ *स्वयमातृण्णादीष्टकोपधानाभिधानम् :- मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नःसन्त्वोषधीः (इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य)। - तै.सं.४.२.९.३ *वरुण प्रघासे याज्यानुवाक्याभिधानम् :- को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्। - तै.सं.४.२.११.३ *व्युष्टिनामकेष्टकाभिधानम् :-ऋतस्य पन्थामनु तिस्र आऽगुस्त्रयो घर्मासो अनु ज्योतिषाऽगुः। - तै.सं.४.३.११.१ *ऋतस्य गर्भः प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति। सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति। - तै.सं.४.३.११.५ *चातुर्मास्येषु साकमेधाख्ये तृतीये पर्वणि याज्यानुवाक्याभिधानम् :- ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य। - तै.सं.४.३.१३.५ *छन्दोभिधेष्टकाभिधानम् :- अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः। रथीर्ऋतस्य बृहतो बभूथ ॥ - तै.सं.४.४.४.७ *ऋतव्याख्येष्टकाभिधानम् :- ऋतस्थाः स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वतीः स्वधाविनीस्ता मे अग्न इष्टका धेनवः सन्तु (इतीष्टका धेनूर्यजमानः कुरुते)।- - - तै.सं.४.४.११.४ *अग्निस्थापनाभिधानम् :- ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्त्यमित्रश्च दूरेअमित्रश्च गणः। ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च - - - (मरुद्गणाः) - तै.सं.४.६.५.६ *होमाभिधानम् :- अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः (इत्येतैः त्रिस्रिभिरनुवाकैः षट्-त्रिंशतमश्वस्तोमीयाञ्जुहोति - तै.सं.४.६.७.२ *वसोर्धाराभिधानम् :- - - - ऋतं च मेऽमृतं च मेऽयक्ष्मं च मे- - - - -तै.सं.४.७.३.२ *अग्नियोगाभिधानम् :- इन्दुर्दक्षः श्येन ऋतावा। हिरण्यपक्षः शकुनो भुरण्युर्महान्त्सधस्थे ध्रुव आ निषत्तः। (इति तिसृभिरभिमृशन्नग्निं युनक्ति) - तै.सं.४.७.१३.१ *मृत्खननगमनपूर्वकमश्वेन भूम्याक्रमणम् :-इमामगृभ्णन्रशनामृतस्ये- त्यश्वाभिधानीमादत्ते५ यजुष्कृत्यै यज्ञस्य समृद्ध्यै - तै.सं.५.१.२.१ *मृदा खननपूर्वकं चर्मपत्रयोः संभरणम् :- आरण्याः पशवः कनीयांसः शुचा ह्यृता लोमतः सं भरति - - - तै.सं.५.१.४.३ *संभृतमृदो यज्ञभूमौ समाहरणम् :-ऋतंसत्यमित्याहेयं वा ऋतमसौ सत्यमनयौरेवैनं प्रतिष्ठापयति - तै.सं.५.१.५.८ *अश्वमेधसंबन्धिप्रयाजयाज्याभिधानम् :- उषासा वाम् सुहिरण्ये सुशिल्पे ऋतस्य योनाविह सादयामि। - तै.सं.५.१.११.३ *स्वयमातृण्णास्थापनम् :- वास्तव्यो वा एष यत् कूर्मो मधु वाता ऋतायत इति दध्ना मधुमिश्रेणाभ्यनक्ति स्वदयत्येवैनं - - - - तै.सं.५.२.८.५ *उखादिस्थापनम् :- आरण्याः पशव कनीयांसः शुचा ह्यृताः - तै.सं.५.२.९.५ *रेतःसिगाद्यभिधानम् :-चित्तं जुहोमि मनसा घृतेन यथा देवा इहाऽऽगमन् वीतिहोत्रा ऋतावृधः - तै.सं.५.५.४.३ *पशुनियोजनम् :- ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋतं सत्येनैवैनमृतेनाऽऽरभते - तै.सं.६.३.६.३ *ध्रुवग्रहः :- वैश्वानरमृताय जातमग्निमित्याह वैश्वानरं हि देवतयाऽऽयुरुभयतोवैश्वानरो गृह्यते - तै.सं.६.५.२.१ *दक्षिणाहोमकथनम् :- ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्याह सत्यं वा ऋतं सत्येनैवैना ऋतेन वि भजति - तै.सं.६.६.१.३ *अश्वमेधमन्त्रकथनम् :-इमामगृभ्णन्रशनामृतस्य पूर्व आयुषि विदथेषु कव्या। तया देवाः सुतमा बभूवर्ऋतस्य सामन्त्सरमारपन्ती - तै.सं.७.१.११.१ *अश्वमेधमन्त्रकथनम् :- ऋतस्य पथ्याऽसि - तै.सं.७.१.१८.१ *आऽहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तँ सत्येऽधां सत्यमृतेऽधाम् (इति ऋतुदीक्षाभिः कृष्णाजिनमारोहन्तमभिमन्त्रयते)। - तै.सं.७.१.१८.२ *अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहर्तमस्यृतस्यर्तमसि सत्यमसि सत्यस्य सत्यमस्यृतस्य पन्था असि देवानां छायाऽमृतस्य नाम - तै.सं.७.१.२०.१ *दर्शपूर्णमासः :- उत्तरं परिग्राहं परिगृह्णात्यृतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतो - बौधायन श्रौत सूत्र १.११ *अग्न्याधेयः (उपवसथगवि) :-असुं य ईयुरवृका ऋतज्ञास्ते नो ऽवन्तु पितरो हवेष्विति - बौ.श्रौ.सू.२.८ *अग्न्याधेयः (उपवसथगवि) :- यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः। - बौ.श्रौ.सू.२.१० *अग्निहोत्रम् :- ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति सत्यं त्वर्तेन परिषिञ्चामीति प्रातः - बौ.श्रौ.सू.३.५ *आग्रयणम् (अग्निभ्यः प्रवासः) :- एतेन ह स्म वै पूर्वे श्रोत्रिया ऋतायवस्तेजस्कामा यशस्कामा ब्रह्मवर्चसकामा उपतिष्ठन्ते - बौ.श्रौ.सू.३.१४ *चातुर्मास्यानि (वैश्वदेवः) :- - - - यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपत ऋतमेव परमेष्ठ्यृतं नात्येति किं चन। - शतपथ ब्राह्मण १.१.२.७
*त्वं सोम महे भगं त्वं यून ऋतायते। दक्षं दधासि जीवस इति जीववन्तौ। - आप.श्रौ.सू.८.१४.२४ *अग्निष्टोम प्रातसवनम् :- आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तं सत्ये ऽधायि सत्यमृते ऽधाय्यृतं च मे सत्यं चाभूतां - - - आप.श्रौ.सू.१०.९.३ *- - - अपरेणाहवनीयं दक्षिणातिहृत्य वरुणस्यर्तसदन्यसीति दक्षिणेनाहवनीयं राजासन्दी प्रतिष्ठापयति - आप.श्रौ.सू.१०.३१.२ *मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह। - आप.श्रौ.सू.११.१.९ *अग्निष्टोम प्रातसवनम् :- ऋतधामासि सुवर्ज्योतिरित्यौदुम्बरीम् - आप.श्रौ.सू.११.१४.१० *अयं वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा - - - एष ते योनिर~ऋतायुभ्यां त्वेति सादयति। - आप.श्रौ.सू.१२.१४.१२ *प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्यभिज्ञायोभयतो मोदं प्रतिगृणाति- - - - - आप.श्रौ.सू.१३.१३.८ *यो मत्येrषु निध्रुविर~ऋतावा तपुर्मूर्धा घृतान्नः पावकः। - आप.श्रौ.सू.१४.१७.१ *अग्निचयनम् :- मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य - - - आप.श्रौ.सू.१६.२५.१ *अग्निचयनम् :- ऋतसदसि सत्य सदसि तेजःसदसि वर्चःसदसि - - - आप.श्रौ.सू.१६.२९.२ *अग्निचयनम् :- ऋतमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद। सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद। - आप.श्रौ.सू.१६.३१.१ *ऋताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमामाहुतिं जुहोति। ताभ्यः स्वाहेत्युत्तराम्। - आप.श्रौ.सू.१७.२०.१ *ऋतपेयेनाग्निष्टोमेन बृहत्साम्ना स्वर्गकामः। - आप.श्रौ.सू.२२.९.११ *नक्तमाहवनीयमभ्यावृत्यास्ते। दिवादित्यम्। ऋतमुक्त्वा प्रसर्पन्ति। ऋतं वदन्तो भक्षयन्ति। - आप.श्रौ.सू.२२.९.१७ *वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा - आप.श्रौ.सू.२४.१३.३ *पिण्ड पितृpयज्ञः :- परिक्षालनमानयति °° सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमा। पृच्छतीर्मधुना पयो मन्द्रा धनस्य सातय °° इति। - कात्यायन श्रौत सूत्र ४.२.३२ *सोमयागः :-अभिमृशत्येनां (आसन्दीं)वरुणस्य ऋतसदन्यसीति। कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति। तस्मिन् सोमं निदधाति वरुणस्य ऋतसदनमासीदेति। - कात्या.श्रौ.सू.७.९.२५ *चयनम् :- द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारं राष्ट्रभृतो वाट्कारान्तः पूर्वः पूर्वो मन्त्रः। - कात्यायन श्रौत सूत्र १८.५.१६ *एकाहा: :- स्वर्गकामस्यर्तपेयः। - कात्या.श्रौ.सू.२२.८.१० *°°ऋतस्य पन्थामन्वेमि होते°°त्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना। - आश्वलायन श्रौत सूत्र १.३.२५ *इळोपह्वान मन्त्राः :- उपहूते द्यावापृथिवी पूर्वजे ऋतावरी - - आश्व.श्रौ.सू.१.७.८ *ऋतसत्यशीलः सोमसुत्सदा (अग्निहोत्रं) जुहुयात् - आश्व.श्रौ.सू.२.१.५ *अग्निहोत्रहोमः :- ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्त्रिस्त्रिरेकैकं पुनः पुनरुदकमादाय। - आश्व.श्रौ.सू.२.२.११ *- - - - ऽऽचम्य नाभिमालभेतामोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः। - आश्व.श्रौ.सू.२.९.१० *तव वायवृतस्पते - - - - ऋतं दिवे तदवोचं पृथिव्या इति द्वे - - - प्र द्यावायज्ञैः पृथिवी ऋतावृधा - - - इति (अष्टदश षळृच आम्नाताः। तैरष्टादश पशवो विहिता भवन्ति)। - आश्व.श्रौ.सू.३.८.१ *स्पृष्ट्वोदकं निह्नवन्ते (नमस्कारं कुर्वन्ति)- - - एष्टा राय एष्टा वामानि प्रेषे भगाय। ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति - आश्व.श्रौ.सू.४.५.८ *त्वामग्न ऋतायव - - - (प्रातरनुवाकार्थम्) - आश्व.श्रौ.सू.४.१३.७ *स्तुत देवेन सवित्रा प्रसूता ऋतं च सत्यं च वदत - - - - इति जपित्वा मैत्रावरुणः स्तुध्वमित्युच्चैः। - आश्व.श्रौ.सू.५.२.१४ *क्रतुच्छन्द ऋतं बृहत् - - -(निविदः) - आश्व.श्रौ.सू.६.२.९ *ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं घर्ममीमहे। - आश्व.श्रौ.सू.८.१०.३ *यः कामयेत नैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत। ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये सत्येन चमसान्भक्षयन्ति। - आश्व.श्रौ.सू.९.७.३५ *दर्शपूर्णमास प्रकरणम् (इळोपह्वाननिगदः) :- उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे। - शाङ्खायन श्रौत सूत्र १.१२.१ *ऽग्निहोत्रप्रकरणम् :- ऋतं त्वा सत्येन परिषिञ्चामीति त्रिस्त्रिरेकैकं पर्युक्ष्य हुत्वा च। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। - शां.श्रौ.सू.२.६.१० *अग्निहोत्रं :-पश्चादन्वाहार्यपचनाद्यजमानः प्रत्यङ्तिष्ठन्नादित्यमुपतिष्ठते सत्य ऋताय त्वा दक्षिणां नयानीति सायम्। ऋत सत्याय त्वा दक्षिणां नयानीत्याहवनीयं प्रातः। - शां.श्रौ.सू.२.७.१३ *अभ्युद्द्रष्टेष्टिप्रकरणम् :- ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस्रं भानुमीमहे। (वैश्वानरस्य पुरोनुवाक्या) - शां.श्रौ.सू.३.३.५ *चातुर्मास्यान्तर्गत शुनासीर्यपर्वप्रकरणम् :-तव वायवृतस्पतेऽध्वर्यवश्चकृवांसः (इति वायोः पयोहविषि पुरोनुवाक्या) - शां.श्रौ.सू.३.१८.५ *ज्योतिष्टोमे आतिथ्येष्टिप्रकरणम् :-एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्यो नमो द्यावापृथिवीभ्यां इति पाणीन्प्रस्तरे निधाय निह्नुवते - शां.श्रौ.सू.५.८.५ *ज्योतिष्टोमे धिष्ण्योपस्थानप्रकरणम् :-ऋतस्य द्वारौ मा मा संताप्तमिति द्वार्यौ संमृश्य (प्रविशेयुः) - शां.श्रौ.सू.६.१२.१३ *ऋतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् (अवेक्ष्योपतिष्ठन्ते) - शां.श्रौ.सू.६.१२.२३ *ज्योतिष्टोमे वैश्वदेवशस्त्रप्रकरणम् :- प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयम् (सनिवित्कं शंसेत्) - शां.श्रौ.सू.८.३.११ *दशरात्रेऽष्टममहः :- विश्वे देवा ऋतावृध इति तिस्र इति वैश्वदेवे विकारः। - - - - - ऋतावानं वैश्वानरम् - शां.श्रौ.सू.१०.१०.८ *अभिप्लवषळहप्रकरणम् :- त्वामग्न ऋतायव (इति जातवेदसीयम्) - शां.श्रौ.सू.११.६.८ *अभिप्लवषळहप्रकरणम् :- विश्वे देवा ऋतावृध इति तृचानि। - शां.श्रौ.सू.११.८.३ *एकाह प्रकरणम् :-ऋतपेयेन तेजस्कामो यजेत। द्वादश दीक्षा द्वादशोपसदः।- - - - -ऋतं सत्यं वदन्तो भक्षयेयुः। - - - -मन्दमान ऋतादधि प्रजाया ऋतस्य हि शुरुधः सन्ति पूर्वीरित्यृतवती तदेतस्याह्नो रूपम्। - -शां.श्रौ.सू.१४.१६.१ *एकाहप्रकरणम् :- त्वामग्न ऋतायव इति सप्त प्रस्थितानाम् (याज्या) - शां.श्रौ.सू.१४.५६.४ *वाजपेयप्रकरणम् :- धीती वा ये अनयन्वाचो अग्रं मनसा वा येऽवदन्नृतानि -- - - - - (एताः पच्छःशंसेत्) - शां.श्रौ.सू.१५.३.७ |