PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मार्कण्डेयः

मार्कण्डेय अथवा मृकण्डुशब्दः वैदिकवाङ्मये नास्ति, पुराणेषु सार्वत्रिकरूपेण प्रकटयति। लक्ष्मीनारायणसंहिता १.२०६.५० मध्ये कथनमस्ति यत् मार्कण्डेयः मृकण्डुसंज्ञकस्य मुनेः पुत्रः अस्ति। मृकण्डोः नाम्नः कारणं अयं अस्ति यत् तपःकाले मृगाः तस्य देहोपरि शृंगाणि घर्षयित्वा कण्डूं शमयन्ति स्म। किन्तु तर्कदृष्ट्या अयं प्रतीयते यत् मृकण्डुः मर्त्यस्तरे ये कण्ड्वाः सन्ति, तेषां प्रतीकः अस्ति। मर्त्यस्तरे क्षुधा, तृषा, सर्वे कामाः कण्डवः, खर्ज्जाः सन्ति। काठकसंहिता २३.४ यां कथनमस्ति –

यजुषा कण्डूयतेऽयजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै

अर्थात् मनुष्यस्तरे ये कण्डवः, खर्ज्जाः सन्ति, तेषां चिकित्सा बाह्यउपायेभ्यः न करणीयमस्ति, अपितु यजुषा करणीयमस्ति। यजुः – यत्र चित्तस्य कामना कल्पवृक्षसदृशं पूरितं भवति, क्रियायाः आवश्यकता न भवति। चिन्तितस्य पूरणे, कल्पवृक्षस्य आविर्भवने का बाधा अस्ति। अस्माकं पापाः बाधाः सन्ति।

     मृकण्डोः यः मार्कण्डेयसंज्ञकः पुत्रः अस्ति, तस्य के गुणाः सन्ति। अयं प्रतीयते यत् पापानां मार्जनम् मार्कण्डेये निहितः अस्ति। एकः दक्षिणामूर्त्युपनिषत् अस्ति यत्र मार्कण्डेयः कथयति –

येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् 

अर्थात् यः दक्षिणामुखः शिवः अस्ति, सः सामान्यरूपेण परोक्षः एव अस्ति, न प्रत्यक्षः। दक्षिणामुखस्य शिवस्य प्रत्यक्षकरणेन दीर्घायोः प्राप्तिः भवति। नारदपुराणे १.९१.१३० मार्कण्डेयस्य स्थाने शुकस्य उल्लेखमस्ति। अयं साधनायाः दक्षिणायनमार्गः अस्ति।

मार्कण्डेयशब्दस्य व्युत्पत्तिः मर्कशब्दतः अपि सम्भवमस्ति।

 

ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मन्धि ।

आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥ १०.०२७.२०

ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।

आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥२०

आपश्चित् वृष्टिलक्षणान्युदकान्यपि अस्य इन्द्रस्य अर्थं गतिं वि नशन्ति । विनशतिर्व्याप्तिकर्मा । व्याप्नुवन्ति । तथा सूरश्च सूर्यश्च व्याप्नोति । कीदृशः । मर्कः मार्जयिता सर्वस्य शोधयिता उपरः मेघसदृशः बभूवान् भवन् । मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ ॥ १८ ॥ - सायणभाष्यम्

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पाँ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।
उ॑पया॒मगृ॑हीतो सि॒ मर्का॑य त्वा ।।
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ।
ए॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ।
अप॑मृष्टो॒ मर्कः॑ ।
दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु ।
अना॑धृष्टासि ।।
सु॑प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
सं॑जग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒थिशो॑चिषा ।
निर॑स्तो॒ मर्कः॑ । वाजसनेयि संहिता ७.१६-१८

7.16
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपा संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।
उपयामगृहीतो ऽसि मर्काय त्वा ॥

7.17
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।
एष ते योनिः प्रजाः पाहि ।
अपमृष्टो मर्कः ।
देवास् त्वा मन्थिपाः प्रणयन्तु ।
अनाधृष्टासि ॥

7.18
सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।
निरस्तो मर्कः ।
मन्थिनो ऽधिष्ठानम् असि ॥

 

मृपल्योः कनुगानुगौ च।।पा. उणादिकोशः २.१.५३।।

मृपलिभ्यां डुप्रत्ययः। तत्सन्नियोगेन च मृङः कनुक्, पलेरानुक्चागमो भवति। मृकण्डुः मुनिः। पलाण्डुः लशुनभेदः। - दण्डनाथनारायणवृत्तिः

 

सोमयागे मार्जनस्य पूर्णप्रक्रियायाः निदर्शनं भवति। प्रथमतः प्रवर्ग्यसंज्ञकः कृत्यः भवति यस्य उद्देश्यं प्रजायाः स्वामित्वं भवति। यदा अयं सफलं भवति, तदा प्रवर्ग्यः मार्जालीयसंज्ञके अग्नौ विलीनं भवति।

     पुराणेषु मार्कण्डेयः मृकण्डोः अल्पायुषःपुत्रः अस्ति। एकदा सप्तर्षयः तं बालकं पश्यन्ति एवं दीर्घायुहेतु तं ब्रह्मासमीपे नयन्ति। ब्रह्मा तं दीर्घायुः प्रयच्छति। अत्र सप्तर्षयः के जनाः सन्ति। अयं प्रतीयते यत् सामान्यरूपेण यः जीवनव्यापारः प्रचलति, तस्य आधारः अपानसंज्ञकाः प्राणाः सन्ति। एते प्राणाः मर्त्याः सन्ति। यदा अपानसंज्ञकाः प्राणाः क्रमिकरूपेण विकासं कृत्वा अमर्त्याः भवन्ति, तदा तेषां संज्ञा प्राणाः भवति। मर्त्यदेहे सर्वाधिकविकसिताः प्राणाः चक्षु, श्रोत्र, वाक्, मन आदि सन्ति। एतेषां संज्ञा सप्तर्षयः अस्ति। यदा एते प्राणाः तपसा विकसिताः भवन्ति, तदा तेषां गतिः ब्रह्मलोके संभवं भवति, ते ब्रह्मासमीपे गन्तुं शक्ताः भवन्ति। वैदिकवाङ्मये ब्रह्मशब्दतः किं तात्पर्यमस्ति। ओंकारस्य त्रयः अक्षराः सन्ति – अ, उ, म। अअक्षरस्य स्वामी ब्रह्मा अस्ति। अयं पूरणे भवति, अर्थात् मर्त्यस्तरे यत्र कापि न्यूनता अस्ति, तस्याः पूरणं ब्रह्मणः कार्यमस्ति। पालनम्, क्षयस्य निरोधनम् , कुम्भकं विष्णोः कार्यमस्ति। पापानां दहनम् शिवस्य कार्यमस्ति।

     पुराणेषु मार्कण्डेयविषये ये आख्यानाः सन्ति, तेषु प्रलयकाले मार्कण्डेयेन जलप्लावने वटवृक्षस्य दर्शनं एवं वटवृक्षोपरि बालमुकुन्दस्य दर्शनस्य आख्यानं सार्वत्रिकरूपेण वर्णितमस्ति। कथनमस्ति यत् यः वटमूलः अस्ति, तत् शिवस्य रूपमस्ति, यः वटवृक्षः अस्ति, तत् ब्रह्मणः प्रतीकमस्ति एवं वटवृक्षोपरि यः बालमुकुन्दः शेते, तत् विष्णोः प्रतीकमस्ति। स्कन्दपुराणे २.२.३ वटवृक्षस्य तुलना यज्ञस्य यूपेन सह कृता अस्ति एवं यूपस्य अग्रभागस्य तुलना बालमुकुन्देन सह।