PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मुकुट भविष्यपुराणे ३.२.१ वेतालपंचविंशत्याः आरंभं अनया कथया भवति – वाराणस्याः षोडशवर्षीयः युवराजः वज्रमुकुटः स्वमित्र बुद्धिदक्ष सहितं हयोपरि आरुह्य अरण्ये गच्छति। तत्र सः कर्णाटक भूपतेः दन्तवक्त्रस्य कन्यां पद्मावतीं दृष्ट्वा तस्याः उपरि अतीव आकृष्टो भवति मूर्च्छितः च भवति। कन्या तेन सह संकेतभाषायां संवादं करोति। सा स्वशिरसः पद्मं निष्कास्य तं पद्मं कर्णेण स्पृष्ट्वा दशनैः चखित्वा पादयोपरि दधाति हृदयेन स्पर्शं करोति च। ततः सा सखिभिः सार्द्धं गृहं गच्छति। बुद्धिदक्षः स्वमित्रं वज्रमुकुटं कन्यया कृतं सांकेतिक भाषायाः अर्थं कथयति तेन सह कर्णाटक देशे गच्छति च। तत्र सः दूती द्वारा कन्यया सार्द्धं सम्पर्कं करोति। पुनः कन्या दूतीं संकेतानि ददाति। बुद्धिदक्षः तेषां संकेतानां अर्थानि राजपुत्रं कथयित्वा तं राजपुत्रं कन्यां प्रति प्रेषयति। कन्यया राजपुत्रस्य स्वागत आदि अनन्तरं यदा सः प्रत्यागच्छति, तदा सा कन्या मित्रहेतु विषयुक्तं मिष्टान्नं ददाति। बुद्धिदक्षः तस्य मिष्टान्नस्य दोषं ज्ञात्वा तं न गृह्णाति। ततः सः पुनः राजपुत्रं कन्यां प्रति प्रेषयति। बुद्धिदक्षस्य निर्देशानुसारेण राजपुत्रः सुप्तायाः कन्यायाः जघने त्रिशूलेन अङ्कनं करोति तस्याः अलंकारं हृत्वा च प्रत्यागच्छति। सः तं अलंकारं विक्रयितुं यदा प्रयत्नं करोति तदा राजभटाः तस्य बंधनं कुर्वन्ति कथयन्ति च यत् इदं अलंकारं राजपुत्र्याः अलंकारं अस्ति। वज्रमुकुटः न्यायविदं कथयति यत् इदं अलंकारं श्मशानस्थितेन तेन गुरुणा दत्तम्। गुरुः कथयति यत् सः मन्त्रशक्त्या रात्रौ डाकिनीनां आवाहनं कृतवान्। तेषां डाकिनीनां मध्ये एकस्याः डाकिन्याः जानोः उपरि सः त्रिशूलेन अङ्कनं कृतवान् , अतः तस्याः डाकिन्याः इदं अलंकारं अस्ति। यदा कर्णाटकस्य राजा दन्तवक्त्रः स्वकन्यायाः डाकिन्या सह तादात्म्यं जानाति, तदा सः तां कन्यां स्वनगरात् बहिः निष्कासयति। राजपुत्रः वज्रमुकुटः स्वमित्रेण बुद्धिदक्षेन सार्द्धं तां कन्यां गृहीत्वा स्वनगरे प्रस्थानं करोति। इमां कथां कथयित्वा वेतालः राजानं विक्रमं पृच्छति यत् अस्यां कथायां कः जनः सर्वाधिक दोषी अस्ति – राजपुत्रः, तस्य मित्रः बुद्धिदक्षः, राजभटाः, कन्या अथवा कर्णाटकराज दन्तवक्त्रः। विक्रमः उत्तरं ददाति यत् कन्यायाः पिता दन्तवक्त्रः सर्वाधिक दोषी अस्ति यतः सः सत्यं अविज्ञाय स्वकन्यायाः निष्कासनं अकरोत्। कथासरित्सागरे इयमेव कथा किंचित् भिन्नता सह अस्ति । कर्णाटक देशस्य संज्ञा कर्णोत्पलमस्ति। राज्ञः दन्तवक्त्रस्य नाम दन्तघाटः अथवा संग्रामवर्धनः अस्ति। कथासरित्सागरे भविष्यपुराणस्य कथायाः विस्तारं अपि अस्ति। मुकुटस्य संदर्भे पुराणेषु सार्वत्रिक कथनमस्ति यत् मुकुटे पन्नगानां स्थितिः भवति। अयं संकेतः अस्ति यत् मुकुटसंज्ञक आभूषणस्य विकासे आरम्भिक स्थितिः अयं अस्ति यत्र मुकुट निर्मात्रि ऊर्जायाः आरोहणं – अवरोहणं सर्पणशील ऊर्जानुसारेण भवति। यदा वयं भोजनादिकं कुर्वामः, तदा सर्पणशील ऊर्जायाः अवरोहणं भवति, अतः मुकुटः अदृश्यं भवति। एका स्थितिः सा अस्ति यत्र ऊर्जायाः आरोहण – अवरोहणम् मुकुटस्य स्थिरतां नष्टं न करोति। सा स्थितिः मुकुटस्य वज्र स्थितिः अस्ति, अयं कथितुं शक्यते। वेतालपंचविंशत्याः कथायां वज्रमुकुटः एकदा हयोपरि आरुह्य अरण्यं प्रति गच्छति, तत्र पद्मावती कन्यायाः दर्शनं करोति, तस्याः उपरि आकृष्टं भवति, कन्यया सह सांकेतिकभाषायां संवादं करोति च। अरण्यगमनं कस्याश्चिद् घटनायाः आकस्मिक् प्रकटनस्य संकेतमस्ति। सा घटना न चिरस्थायी अस्ति, अपितु आकस्मिक, अल्पकालिकमेव। यदि एवं घटति, तदा स्वप्रयत्नेन तस्याः घटनायाः सातत्यकरणं अपेक्षितं भवति। यस्याः कन्यायाः उपरि वज्रमुकुटस्य आसक्तिः भवति, सा कर्णाटकराज्ञस्य दन्तवक्त्रस्य पुत्री अस्ति। कर्णाटक (कर्ण-अटनं) नगरी साधनायाः प्रतीकं अस्ति परन्तु इयं साधना केवलं शुष्कसाधना नास्ति, अस्यां साधनायां कर्णेषु मधुर ध्वनिः, नादस्य श्रवणं अपि भवति। वाराणसी नगरी शुष्क साधनायाः, श्मशानस्य साधनायाः नगरी अस्ति, कर्णाटकं संगीतस्य नगरी अस्ति। एका श्रुतिः अस्ति, एका स्मृतिः अस्ति। श्रुति साधना स्मृति साधनायाः अभावे निर्वाहं कर्तुं समर्थं नास्ति। तयोः द्वयोः मेलनं आवश्यकं अस्ति। अनेन कारणेन वज्रमुकुटः पद्मावती कन्ययोपरि अतीव आकृष्टं भवति। किन्तु स्मृति अवस्थायां आत्मनः घोषस्य यत् श्रवणं अस्ति, तत् न स्पष्टं भवति, अपितु शकुन रूपेण अस्पष्टमेव भवति। एते शकुनाः कन्यायाः संकेतभाषा भवन्ति। तस्य पिता दन्तवक्त्रः अस्ति। यदा जिह्वा उच्चारयति, तदा अक्षराणां उच्चारण हेतु सा दन्तानां स्पर्शमपि कदाचित् करोति। पुराणेषु कथनमस्ति(गर्ग ६.६.४०) यत् दन्तवक्त्रस्य ये दन्ताः वक्राः सन्ति, तेषां भूमिपातनं एव श्रेष्ठः। कन्यायाः जानोः उपरि त्रिशूलेन अङ्कनं संकेतं अस्ति यत् स्मृति रूपी प्रकृतिः सत्-रज-तमरूपैः त्रि शूलैः लिप्ता अस्ति तया सह व्यवहारे च जाग्रतिः अपेक्षिता भवति। नाट्यशास्त्रे मुकुटस्य त्रिप्रकाराः कथिताः सन्ति – पार्श्वमौलि, मस्तकिन् किरीटी च। अत्र पार्श्वमौलि(पार्श्व – सहायक, मौलि – लक्षण) शकुनानां संज्ञा अस्ति, एवं कथितुं शक्यते। वज्रमुकुट – पद्मावती कथायां पार्श्वमौलिः पद्मावत्याः सांकेतिक भाषायाः प्रतिनिधित्वं करोति। प्रथम लेखन – भाद्रपद कृष्ण द्वितीया, विक्रम संवत् २०७३(२०-८-२०१६ई.)
पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः ।
|